(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    


॥ श्रीः ॥
6.93. अध्यायः 093
Mahabharata - Bhishma Parva - Chapter Topics
संकुलमुद्धवर्णनम् ॥ 1 ॥


Mahabharata - Bhishma Parva - Chapter Text

सञ्जय उवाच। 6-93-0x(4175)(42872)
विमुखीकृत्य वर्सांस्तु तावकान्युधि राक्षसः।
जिघांसुभरतश्रेष्ठ दुर्योधनमुपाद्रवत् ॥ 6-93-1(42873)
तमापतन्तं संप्रेक्ष्य राजानं प्रति वेगितम् ।
अभ्यधावञ्जिघांसन्तस्तावका युद्धदुर्मदाःक ॥ 6-93-2(42874)
तालमात्राणि चापानि विकर्षन्तो महारथाः ।
तमेकमभ्यधावन्त नदन्तः सिंहसङ्घवत् ॥ 6-93-3(42875)
अथैनं शरवर्षेण समन्तात्पर्यवाकिरन् ।
पर्वतं वारिधाराभिः शरदीव वलाहकाः ॥ 6-93-4(42876)
स गाढविद्धो व्यथितस्तोत्रार्दित इव द्विपः ।
उत्पपात तदाऽऽकाशं समन्ताद्वैनतेयवत् ॥ 6-93-5(42877)
व्यनदत्सुमहानादं जीमूत इव शारदः ।
दिशः खं विदिशश्चैव नादयन्भैरवस्वनः ॥ 6-93-6(42878)
राक्षसस्य तु तं शब्दं श्रुत्वा राजा युधिष्ठिरः ।
उवाच भरतश्रेष्ठ भीमसेनमरिन्दमम् ॥ 6-93-7(42879)
युध्यते राक्षसो नूनं धार्तराष्ट्रैर्महारथैः ।
यथाऽस्य श्रूयते शब्दो नदतो भैरवं स्वनम् ॥ 6-93-8(42880)
अतिभारं च पश्यामि तस्मिन्राक्षसपुङ्गवे ।
पितामहश्च संक्रुद्धः पाञ्चालान्हन्तुमुद्यतः ॥ 6-93-9(42881)
तेषां च रक्षणार्थाय युध्यते फल्गुनः परैः।
एतज्ज्ञात्वा महाबाहो कार्यद्वयमुपस्थितम् ॥ 6-93-10(42882)
गच्छ रक्षस्व हैडिम्बं शंशयं परमं गतम् ।
भ्रातुर्वचनमाज्ञाय त्वरमाणो वृकोदरः ॥ 6-93-11(42883)
प्रययौ सिंहनादेन त्रासयन्सर्वपार्थिवान् ।
वेगेन महता राजन्पर्वकाले यथोदधिःक ॥ 6-93-12(42884)
तमन्वगात्सत्यधृतिः सौचित्तिर्युद्धदुर्मदः ।
श्रेणिमान्वसुदानश्च पुत्रः काश्यस्य चाभिभूः ॥ 6-93-13(42885)
अभिमन्युमुखाश्चैव द्रौपदेया महारथाः ।
क्षत्रदेवश्च विक्रन्तः क्षत्रधर्मा तथैव च ॥ 6-93-14(42886)
अनूपाधिपतिश्चैव नीलः स्वबलमास्थितः ।
महता रथवंशेन हैडिम्बं पर्यवारयन् ॥ 6-93-15(42887)
कुञ्चरैश्च सदा मत्तैः षट्सहस्रैः प्रहारिभिःक ।
अभ्यरक्षन्त सहिता राक्षसेन्द्रं घटोत्कचम् ॥ 6-93-16(42888)
सिंहनादेन महता नेमिघोषेण चैव ह।
खुरशब्दनिपातैश्च कम्पयन्तो वसुंधराम् ॥ 6-93-17(42889)
तेषामापततां श्रुत्वा शब्दं तं तावकं बलम् ।
भीमसेनभयोद्विग्नं विवर्णवदनं तथा ॥ 6-93-18(42890)
परिवृत्य महाराज परित्यज्य घटोत्कचम् ।
ततः प्रववृते युद्धंक तत्र तेषां महात्मनाम् ॥ 6-93-19(42891)
तावकानां परेषां च संग्रामेष्वनिवर्तिनाम् ।
नानारूपाणि शस्त्राणि विसृजन्तो महारथाः ॥ 6-93-20(42892)
अन्योन्यमभिधावन्तः संप्रहारं प्रचक्रिरे ।
व्यतिष्यक्तं महारौद्रं युद्धं भीरुभयावहम् ॥ 6-93-21(42893)
हया हयैः समाजग्मुः पादाताश्च पदातिभिः ।
`रथा रथैः समागच्छन्नागा नागैश्च संयुगे'
अन्योन्यं समरे राजन्प्रार्थयानाः समभ्ययुः ॥ 6-93-22(42894)
सहसा चाभवत्तीव्रं सन्निपातन्महद्रजः।
गजाश्वरथपत्तीनां पादनेमिसमुद्धतम् ॥ 6-93-23(42895)
धूम्रारुणं रजस्तीव्रं रणभूमिं समावृणोत्।
नैव स्वे न परे राजन्समजानन्परस्परम् ॥ 6-93-24(42896)
पिता पुत्रं न जानीते पुत्रो वा पितरं तथा ।
निर्मर्यादे तथाभूते वैशसे रोमहर्षणे ॥ 6-93-25(42897)
शस्त्राणां भरतश्रेष्ठ मनुष्याणां च र्जताम् ।
सुमहानभवच्छब्दः प्रेतानामिव भारत ॥ 6-93-26(42898)
गजवाजिमनुष्याणां शोणितान्रतरङ्गिणी ।
प्राववर्तत नदी तत्र केशशैवलशाद्वला ॥ 6-93-27(42899)
नराणां चैव कायेभ्यः शिरसां पततां रणे।
शुश्रुवे सुमहाञ्छब्दः पततामश्मनामिव ॥ 6-93-28(42900)
विशिरस्कैर्मनुष्यैश्च छिन्नगात्रैश्च वारणैः ।
अश्वैः संभिन्नदेहैश्च संकीर्णाऽभूद्वसुंधरा ॥ 6-93-29(42901)
नानाविधानि शस्त्राणि विसृजन्तो महारथाः ।
अन्योन्यमभिधावन्तः संप्रहारार्थमुद्यताः ॥ 6-93-30(42902)
हया हयान्समासाद्य प्रेषिता हयसादिभिः ।
समाहत्य रणेऽन्योन्यं निपेतुर्गतजीविताः ॥ 6-93-31(42903)
नरा नरान्समासाद्य क्रोधरक्तेक्षणा भृशम् ।
उरांस्युरोभिरन्योन्यं समाश्लिष्य निजघ्निरे ॥ 6-93-32(42904)
प्रेषिताश्च महामात्रैर्वारणाः परवारणैः ।
अभ्यघ्नन्त विषणाग्रैर्वारणानेव संयुगे ॥ 6-93-33(42905)
ते जातरुधिरोत्पीडाः पताकाभिरलङ्कृताः ।
संसक्ताः प्रत्यदृश्यन्त मेघा इव सविद्युतः ॥ 6-93-34(42906)
केचिद्भिन्ना विषाणाग्रैर्भिन्नकुम्भाश्च तोमरैः ।
विनदन्तोऽभ्यधावन्त गर्जमाना धना इव ॥ 6-93-35(42907)
केचिद्धस्तैर्द्विधाच्छिन्नैश्छिन्नगात्रास्तथाऽपरे ।
निपेतुस्तुमुले तस्मिंश्छिन्नपक्षा इवाद्रयः ॥ 6-93-36(42908)
पार्श्वैस्तु दारितैरन्ये वारणैर्वरवारणाः ।
मुमुचुः शोणितं भूरि धातूनिव महीधराः ॥ 6-93-37(42909)
नाराचनिहतास्त्वन्ये तथा विद्धाश्च तोमरैः ।
विनदन्तोऽभ्यधावन्त विशृङ्गा इव पर्वताः ॥ 6-93-38(42910)
केचित्क्रोधसमाविष्टा मदान्धा निरवग्रहाः ।
रथान्हयान्पदातींश्च ममृदुः शतशो रणे ॥ 6-93-39(42911)
तथा हया हयारोहैस्ताडिताः प्रासतोमरैः ।
तेन तेनाभ्यवर्तन्त कुर्वन्तो व्याकुला दिशः ॥ 6-93-40(42912)
रथिनो रथिभिः सार्धं कुलपुत्रास्तनुत्यजः।
परां शक्तिं समास्थाय चक्रुः कर्माण्यभीतवत् ॥ 6-93-41(42913)
स्वयंवर इवामर्दे प्रजह्रुरितरेतरम् ।
प्रार्थयाना यशो राजन्स्वर्गं वा युद्धशालिनः ॥ 6-93-42(42914)
तस्मिंस्तथा वर्तमाने संग्रामे रोमहर्षणे।
धार्तराष्ट्रं महत्सैन्यं प्रययौ विमुखीकृतम् ॥ ॥ 6-93-43(42915)

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि अष्टमदिवसयुद्धे त्रिनवतितमोऽध्यायः ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.